|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.174. अध्यायः 174
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति कालस्य द्रुततरपातितय सद्यः साधनस्य संपादनीयत्वे प्रमाणतया पितृपुत्रसंवादानुवादः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-174-0x(5883)(71959)
अतिक्रामति कालेऽस्मिन्सर्वभूतक्षयावहे।
किं श्रेयः प्रतिपद्येत तन्मे ब्रूहि पितामह॥ 12-174-1(71960)
भीष्म उवाच। 12-174-2x(5884)
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
पितुः पुत्रेण संवादं तं निबोध युधिष्ठिर॥ 12-174-2(71961)
द्विजातेः कस्यचित्पार्थ स्वाध्यायनिरतस्य वै।
बभूव पुत्रो मेधावी मेधावीनाम नामतः॥ 12-174-3(71962)
सोऽब्रवीत्पितरं पुत्रः स्वाध्यायकरणे रतम्।
मोक्षधर्मार्थकुशलो लोकतन्त्रविचक्षणः॥ 12-174-4(71963)
पुत्र उवाच। 12-174-5x(5885)
धीरः किंस्वित्तात कुर्यात्प्रजानन्
क्षिप्रं ह्यायुर्भ्रश्यते मानवानाम्।
पितस्तदाचक्ष्व यथार्थयोगं
ममानुपूर्व्या येन धर्मं चरेयम्॥ 12-174-5(71964)
पितोवाच। 12-174-6x(5886)
वेदानधीत्य ब्रह्मचर्येण पुत्र
पुत्रानिच्छेत्पावनार्थं पितृणाम्।
अग्नीनाधाय विधिवच्चेष्टयज्ञो
वनं प्रविश्याथ मुनिर्बुभूषेत्॥ 12-174-6(71965)
पुत्र उवाच। 12-174-7x(5887)
एवमभ्याहते लोके समन्तात्परिवारिते।
अमोघासु पतन्तीषु किं धीर इव भाषसे॥ 12-174-7(71966)
पितोवाच। 12-174-8x(5888)
कथमभ्याहतो लोकः केन वा परिवारितः।
अमोघाः काः पतन्तीह किंनु भीषयसीव माम्॥ 12-174-8(71967)
पुत्र उवाच। 12-174-9x(5889)
मृत्युनाभ्याहतो लोको जरया परिवारितः।
अहोरात्राः पतन्त्येते ननु कस्मान्न बुध्यसे।
अमोघा रात्रयश्चापि नित्यमायान्ति यान्ति च॥ 12-174-9(71968)
पितोवाच। 12-174-10x(5890)
यथाऽहमेतज्जानामि न मृत्युस्तिष्ठतीति ह।
सोऽहं कथं प्रतीक्षिष्ये जालेनेवावृतश्चरन्॥ 12-174-10(71969)
पुत्र उवाच। 12-174-11x(5891)
रात्र्यांरात्र्यां व्यतीतायामायुरल्पतरं यदा।
तदैव बन्ध्यं दिवसमिति विन्द्याद्विचक्षणः॥ 12-174-11(71970)
गाधोदके मत्स्य इव सुखं विन्देत कस्तदा।
अनवाप्तेषु कामेषु मृत्युरभ्योति मानवम्॥ 12-174-12(71971)
पुष्पाणीव विचिन्वन्तमन्यत्र गतमानसम्।
वृकीवोरणमासाद्य मृत्युरादाय गच्छति॥ 12-174-13(71972)
अद्यैव कुरु यच्छ्रेयो मा त्वां कालोऽत्यगादयम्।
अकृतेष्वेव कार्येषु मृत्युर्वै संप्रकर्षति॥ 12-174-14(71973)
श्वः कार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम्।
नहि प्रतीक्षते मृत्युः कृतमस्य न वा कृतम्॥ 12-174-15(71974)
को हि जानाति कस्याद्य मृत्युकालो भविष्यति।
युवैव धर्मशीलः स्यादनित्यं खलु जीवितम्।
कृते धर्मे भवेत्कीर्तिरिह प्रेत्य च वै सुखम्॥ 12-174-16(71975)
मोहेन हि समाविष्टः पुत्रदारार्थमुद्यतः।
कृत्वा कार्यमकार्यं वा पुष्टिमेषां प्रयच्छति॥ 12-174-17(71976)
तं पुत्रपशुसंपन्नं व्यासक्तमनसं नरम्।
सुप्तं व्याघ्रो मृगमिव मृत्युरादाय गच्छति॥ 12-174-18(71977)
संचिन्वानकमेवैनं कामानामवितृप्तकम्।
व्याघ्रः पशुमिवादाय मृत्युरादाय गच्छति॥ 12-174-19(71978)
इदं कृतमिदं कार्यमिदमन्यत्कृताकृतम्।
एवमीहासुखासक्तं कृतान्तः कुरुते वशे॥ 12-174-20(71979)
कृतानां फलमप्राप्तं कर्मणां कर्मसंज्ञितम्।
क्षेत्रापणगृहासक्तं मृत्युरादाय गच्छति॥ 12-174-21(71980)
दुर्बलं बलवन्तं च शूरं भीरुं जडं कविम्।
अप्राप्तं सर्वकामार्थान्मृत्युरादाय गच्छति॥ 12-174-22(71981)
नृत्युर्जरा च व्याधिश्च दुःखं चानेककारणम्।
अनुषक्तं यदा देहे किं स्वस्थ इव तिष्ठसि॥ 12-174-23(71982)
जातमेवान्तकोऽन्ताय जरा चान्वेति देहिनम्।
अनुषक्ता द्वयेनैते भावाः स्थावरजङ्गमाः॥ 12-174-24(71983)
अत्योर्वा मुखमेतद्वै या ग्रामे वसतो रतिः।
वानामेष वै गोष्ठो यदरण्यमिति श्रुतिः॥ 12-174-25(71984)
तेबन्धनी रज्जुरेषा या ग्रामे वसतो रवि।
छेत्त्वेता सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः॥ 12-174-26(71985)
हिंसयति यो जन्तून्मनोवाक्कायहेतुभिः।
जीवितार्थापनयनैः प्राणिभिर्न स हिंस्यते॥ 12-174-27(71986)
न मृत्युसेनामायान्तीं जातु कश्चित्प्रबाधते।
ऋते सत्यमसत्त्याज्यं सत्ये ह्यमृतमाश्रितम्॥ 12-174-28(71987)
तस्मात्सत्यव्रताचारः सत्ययोगपरायणः।
सत्यागमः सदा दान्तः सत्येनैवान्तकं जयेत्॥ 12-174-29(71988)
अमृतं चैव मृत्युश्च द्वयं देहे प्रतिष्ठितम्।
मृत्युरापद्यते मोहात्सत्येनापद्यतेऽमृतम्॥ 12-174-30(71989)
सोऽहं ह्यहिंस्रः सत्यार्थी कामक्रोधबहिष्कृतः।
समदुःखसुखः क्षेमी मृत्युंहास्याम्यमर्त्यवत्॥ 12-174-31(71990)
शान्तियज्ञरतो दान्तो ब्रह्मयज्ञे स्थितो मुनिः।
वाङ्भनः कर्मयज्ञश्च भविष्याम्युदगायने॥ 12-174-32(71991)
पशुयज्ञैः कथं हिंस्रैर्मादृशो चष्टुमर्हति।
अन्तवद्भिरिव प्राज्ञः क्षेत्रयज्ञैः पिशाचवत्॥ 12-174-33(71992)
यस्य वाङ्भनसी स्यातां सम्यक्प्रणिहिते सदा।
तपस्त्यागश्च सत्यं च स वै सर्वमवाप्नुयात्॥ 12-174-34(71993)
नास्ति विद्यासमं चक्षुर्नास्ति सत्यसमं तपः।
नास्ति रागसमंदुःखं नास्ति त्यागसमं सुखम्॥ 12-174-35(71994)
आत्मन्येवात्मना जात आत्मनिष्ठोऽप्रजोपि वा।
आत्मन्येव भविष्यामि न मां तारयति प्रजा॥ 12-174-36(71995)
नैतादृशं ब्राह्मणस्यास्ति वित्तं
यथैकता समता सत्यता च।
शीलं स्थितिर्दण्डनिधानमार्जवं
ततस्ततश्चोपरभः क्रियाभ्यः॥ 12-174-37(71996)
किं ते धनैर्बान्धवैर्वापि किं ते
किं ते दारैर्ब्राह्मण यो मरिष्यसि।
आत्मानमन्विच्छ गुहां प्रविष्टं
पितामहास्ते क्व गताः पिता च॥ 12-174-38(71997)
भीष्म उवाच। 12-174-39x(5892)
पुत्रस्यैतद्वचः श्रुत्वा यथाऽकार्षीत्पिता नृप।
तथा त्वमपि वर्तस्व सत्यधर्मपरायणः॥ ॥ 12-174-39(71998)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि चतुःसप्तत्यधिकशततमोऽध्यायः॥ 174॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-174-4 मोक्षधर्माणामर्थेषु कुशलः॥ 12-174-5 यथार्थयोगं फलसंबन्धमनतिक्रम्य तात कुर्याच्छुभार्थी इति ड.थ.पाठः। तात कुर्यात्प्रजासु इति ट. पाठः॥ 12-174-7 अमोधास्वायुर्हरणेन सफलासु रात्रिषु॥ 12-174-11 वन्ध्यं निष्फलम्॥ 12-174-12 यदा मृत्युरभ्येति तदा कः सुखं विन्देतेति संबन्धः॥ 12-174-13 पुष्पाणि काम्यकर्मफलानि मेषीणामार्तवानि वा। आर्तवं विना पशूनां स्त्रीसङ्गे प्रवृत्त्यदर्शनात्। विचिन्वन्तं शास्त्रदृष्ट्या आघ्राणेन च। उरणं मेषम्॥ 12-174-17 एषां पुत्रादीनाम्॥ 12-174-19 संचिन्वानकं कुत्सितं संचिन्वानं संग्रहीतारम्॥ 12-174-20 कार्यं कर्तुमिष्टम्। कृताकृतमर्धकृतम्॥ ईहा तृष्णा॥ 12-174-21 कर्मसंज्ञितं वणिगित्यादि कर्मानुरूपसंज्ञावन्तम्॥ 12-174-24 द्वयेनान्तकजराख्येन॥ 12-174-25 ग्रामे ख्यादिसङ्घे रतिरासक्तिरेव मृत्योर्मुखं न तु वासमात्रम्। गोष्ठमिव गोष्ठं वासस्थानाम्। अरण्यं विविक्तदेशः। गृहं त्यक्त्वैकान्ते ध्यानपरो भवेदित्यर्थः॥ 12-174-26 यान्ति मुक्तिमिति शेषः॥ 12-174-27 न हिंसयति हिंसां न कारयति न करोति चेत्यर्थः। हेतुः श्राद्धादिनिमित्तं तैः जीवितमर्थांश्चापनयन्ति तैर्हिस्नस्तेनादिभिः॥ 12-174-28 मृत्युसेनां जराव्याधिरूपां सत्ये ब्रह्मज्ञाने अमृतं कैवल्यम्॥ 12-174-29 सत्यव्रताचारः सत्यं ब्रह्मज्ञाने तदर्थं व्रतं वेदान्तश्रवणादि तदाचारस्तदनुष्ठाता। सत्ययोगपरायणः ब्रह्मध्यानपरायणः। सत्यः प्रमाणभूत आगमो गुरुवे दवाक्यं यस्य स सत्यागमः श्रद्धावान्॥ 12-174-32 शान्तियज्ञ इन्द्रियनिग्रहः। ब्रह्मयज्ञो नित्यमुपनिषदर्थचिन्तनम्। वाग्यज्ञः जपः। मनोयज्ञः ध्यानं। कर्मयज्ञः स्रानशौचगुरुशुश्रूषाद्यावश्यक धर्मानुष्ठानम्। उदगायने देवयानपथनिमित्तम्। दैर्घ्यमार्षम्॥ 12-174-33 अन्तवद्भिरनित्यफलैः। क्षेत्रयज्ञैः शरीरनाशनैः॥ 12-174-36 आत्मनि परमात्मनि प्रलये स्थित इति शेषः। आत्मना सृष्टिकाले जातः॥ 12-174-37 एकता एकप्रकारता शीलं श्लाघनीयं वृत्तम्। दण्डनिधानं वाङ्भनः कायौर्हिसात्यागः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|